वांछित मन्त्र चुनें

प्र यो न॑न॒क्षे अ॒भ्योज॑सा॒ क्रिविं॑ व॒धैः शुष्णं॑ निघो॒षय॑न् । य॒देदस्त॑म्भीत्प्र॒थय॑न्न॒मूं दिव॒मादिज्ज॑निष्ट॒ पार्थि॑वः ॥

अंग्रेज़ी लिप्यंतरण

pra yo nanakṣe abhy ojasā kriviṁ vadhaiḥ śuṣṇaṁ nighoṣayan | yaded astambhīt prathayann amūṁ divam ād ij janiṣṭa pārthivaḥ ||

पद पाठ

प्र । यः । न॒न॒क्षे । अ॒भि । ओज॑सा । क्रिवि॑म् । व॒धैः । शुष्ण॑म् । नि॒ऽघो॒षय॑न् । य॒दा । इत् । अस्त॑म्भीत् । प्र॒थय॑न् । अ॒मूम् । दिव॑म् । आत् । इत् । ज॒नि॒ष्ट॒ । पार्थि॑वः ॥ ८.५१.८

ऋग्वेद » मण्डल:8» सूक्त:51» मन्त्र:8 | अष्टक:6» अध्याय:4» वर्ग:19» मन्त्र:3 | मण्डल:8» अनुवाक:6» मन्त्र:8